Sanskrit Class 10 Chapter 6 सुभाषितानि NCERT Solutions

Sanskrit Class 10 Chapter 6 सुभाषितानि NCERT Solutions
प्रश्न 1.

एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?
उत्तराणि:आलस्यं

(ख) गुणी किं वेत्ति?
उत्तराणि:गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तराणि:महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तराणि:उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तराणि:सविता

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) केन समः बन्धुः नास्ति?
उत्तराणि:उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति?
उत्तराणि:पिक: वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तराणि:परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि:नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि:सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तराणि:अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

प्रश्न 3.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?
उत्तराणि: य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।
उत्तराणि: विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।


प्रश्न 4.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तराणि:अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तराणि:समान-शील-व्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तराणि:नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तराणि:सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 5.
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तराणि:गुणिनः गुणान् गुणानि जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तराणि:पशुना उदीरितः अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तराणि:मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तराणि:केन छाया निर्वायते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तराणि:एषः एव अग्नि शरीर दहति।

प्रश्न 6(अ).
सन्धि / सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसम: – ___________
उत्तराणि:नास्त्युद्यमसमः

(ख) ___________ + ___________ – तस्यापगमे
उत्तराणि:तस्य + अपगमे

(ग) अनुक्तम् + अपि + ऊहति – ___________
उत्तराणि:अनुक्तमप्यूहति

(घ) ___________ + ___________ – गावश्च
उत्तराणि:गावः + च

(ङ) ___________ + ___________ – नास्ति
उत्तराणि:न + अस्ति

(च) रक्तः + च + अस्तमये – ___________
उत्तराणि:रक्तश्चास्तमये

(छ) ___________ + ___________ – योजकस्तत्र
उत्तराणि:योजक: + तत्र

प्रश्न 6(आ).
समस्तपदं/विग्रहं लिखत-

(क) उद्यमसमः – ___________
(ख) शरीरे स्थितः – ___________
(ग) निर्बल: – ___________
(घ) देहस्य विनाशाय – ___________
(ङ) महावृक्षः – ___________
(च) समानं शीले व्वसनं येषां तेषु – ___________
(छ) अयोग्यः – ___________
उत्तराणि:
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:

प्रश्न 7(अ).
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

(क) प्रसीदति – ___________
(ख) मूर्खः – ___________
(ग) बली – ___________
(घ) सुलभः – ___________
(ङ) संपत्ती – ___________
(च) अस्तमये – ___________
(छ) सार्थकम् – ___________
उत्तराणि:
(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्

प्रश्न 7(आ).
संस्कृतेन वाक्यप्रयोगं कुरुत-

उत्तराणि:
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।

योग्यताविस्तारः

1. तत्पुरुष समास

  • शरीरस्थः – शरीरे स्थितः
  • गृहस्थः – गृहे स्थितः
  • मनस्स्थः – मनसि स्थितः
  • तटस्थः – तटे स्थितः
  • कूपस्थः – कूपे स्थितः
  • वृक्षस्थः – वृक्षे स्थितः
  • विमानस्थः – विमाने स्थितः

2. अव्ययीभाव समास

  • निर्गुणम् – गुणानाम् अभावः
  • निर्मक्षिकम् – मक्षिकाणाम् अभावः
  • निर्जलम् – जलस्य अभाव:
  • निराहारम् – आहारस्य अभाव:

3. पर्यायवाचिपदानि

  • शत्रुः – रिपुः, अरिः, वैरिः
  • मित्रम् – सखा, बन्धुः, सुहृद्
  • वह्निः – अग्निः, दाहकः, पावकः
  • सुधियः – विद्वांसः, विज्ञाः, अभिज्ञाः
  • अश्वः – तुरगः, हयः, घोटक:
  • गजः – करी, हस्ती, दन्ती, नागः
  • वक्षः – द्रुमः, तरुः, महीरुहः, विटपः, पादपः
  • सविता – सूर्यः मित्र: दिवाकरः, भास्करः
Previous Post Next Post