Sanskrit Class 10 Chapter 1 शुचिपर्यावरणम् NCERT Solutions


 प्रश्न 1.

एकपदेन उत्तरं लिखत
(क) अत्र जीवितं कीदृशं जातम्?
(ख) अनिशं महानगरमध्ये किं प्रचलति?
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
(घ) अहं कस्मै जीवनं कामये?
(ङ) केषां माला रमणीया?
उत्तर:

(क) दुर्वहम् (दुष्करम्)
(ख) कालायसचक्रम्
(ग) भक्ष्यम्
(घ) मानवाय
(ङ) ललितलतानाम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर:

(क) धरातले दुर्वहम् जीवितं जातं अतः कविः शुद्धपर्यावरणाय प्रकृतेः शरणम् इच्छति।
(ख) मार्गेषु यानानां अनन्ताः पङ्क्यः सन्ति अतः महानगरेषु संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं धरातलम् च दूषितम् अस्ति।
(घ) कविः नगरात् बहुदूरम् ग्रामान्ते एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशे शुद्धपर्यावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः कामना अस्ति यत् पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् मानवाय च जीवनस्य कामना अस्ति।

प्रश्न 3.
सन्धिं/सन्धिविच्छेदं कुरुत


उत्तर:



प्रश्न 4.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं ……………. प्रदूषितमस्ति।
(ख) ………….. जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् ……………….. लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् …………….. प्रकृतेः आराधना।
(ङ) ………….. समयस्य सदुपयोग: करणीयः।
(च) भूकम्पित-समये …………………. गमनमेव उचितं भवति।
(छ) ………….. हरीतिमा …………… शुचि पर्यावरणम्।
उत्तर:

(क) इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।

प्रश्न 5.
(अ) अधोलिखितानां पदानां पर्यायपदं लिखत
(क) सलिलम् ………….
(ख) आम्रम् ………….
(ग) वनम् ………….
(घ) शरीरम् ………….
(ङ) कुटिलम् ………….
(च) पाषाणः ………….
उत्तर:

(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – कान्तारम्
(घ) शरीरम् – तनुः
(ङ) कुटिलम् – वक्रम्
(च) पाषाणः – प्रस्तरम्

(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत
(क) सुकरम् ……………
(ख) दूषितम् ……………
(ग) गृहणन्ती ……………
(घ) निर्मलम् ……………
(ङ) दानवाय ……………
(च) सान्ताः ……………
उत्तर:

(क) दुर्वहम्
(ख) शुद्धम्
(ग) मुञ्चन्ति
(घ) समलम्
(ङ) मानवाय
(च) अनन्ताः

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत




उत्तर:
समस्तपद – समासनाम
(ख) हरिततरूणाम् — कर्मधारय
(ग) ललितलतानाम् — कर्मधारय
(घ) नवमालिका — कर्मधारय
(ङ) धृतसुखसन्देशम् — बहुब्रीहि
(च) कज्जलमलिनम् — कर्मधारय
(छ) दुर्दान्तदशनैः — कर्मधारय

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
उत्तर:

(क) शकटीयानम् कीदृशं धूमं मुञ्चति?
(ख) उद्याने केषाम् कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
(घ) कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
(ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते?


Previous Post Next Post